ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः|
स्थिरैरंगगैस्तुष्टुवांसस्तनूभिःव्यमेश देवहितं यदायुः॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः|
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शांतिः शांतिः शांतिः॥
॥ अथ गणेशाथर्वशीर्षं व्याख्यास्यामः ॥
ॐ नमस्ते गणपतये| त्वमेव प्रत्यक्षं तत्त्वमसि|
त्वमेव केवलं कर्ताऽसि| त्वमेव केवलं धर्ताऽसि| त्वमेव केवलं हर्ताऽसि|
त्वमेव सर्वं खल्विदं ब्रह्मासि| त्व साक्षत्तदात्मऽसि नित्यम्॥ ऋतं वच्मि|
सत्यं वच्मि॥ अव त्वं माम्| अव वक्तारम्| अव श्रोतारम्| अव दातारम् अव धातारम्|
अवानूचानवम शिष्यम्| अव पश्चात्तात्| अव पुरस्तात्| अवोत्तरात्तात्|
अव दक्षिणात्तात्| अव चोर्ध्वात्तात्| अवाधरात्तात्| सर्वतो मां पाहि पाहि समन्तात्॥
त्वं वाङ्मयस्त्वं चिन्मयः| त्वमानंदमयस्त्वं ब्रह्ममयः| त्वं सच्चिदानंदाद्वितीयोऽसि|
त्वं प्रत्यक्षं ब्रह्मासि| त्वं ज्ञानमयो विज्ञानमयोऽसि|
त्वं प्रत्यक्ष ब्रह्मासि| त्वं ज्ञानमयो विज्ञानमयोऽसि॥ सर्व जगदिदं त्वत्तो जायते|
सर्व जगदिदं त्वत्तस्तिष्ठति| सर्वं जगदिदं त्वयि लयमेष्यति|
सर्व जगदिदं त्वयि प्रत्येति| त्वं भूमिराऽनलोऽनिलो नभः| त्वं चत्वारि वाक्पदानि॥
त्वं गणुत्रयातीतः| त्वं अवस्थात्रयातीतः| त्वं देहत्रयातहीतः| त्वं कालत्रयातीतः|
त्वं मूलाधारस्थितोऽसि नित्यम्| त्वं शक्तित्रयात्मकः| त्वां योगिनो ध्यायंति नित्यं|
त्वं ब्रह्मा त्वं विष्णुस्त्वं रूद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम्॥
गणादिं पुर्वमुच्चार्य वर्णादिं तदनंतरम्| अनुस्वारः परतरः अर्धेंदुलिसितम्| तारेण ऋद्धम्|
एतत्तव मनुस्वरूपम्| गकारः पूर्वरूपम्| अकारो मध्यमरूपम्| अनुस्वादश्चारूपम्| बिंदुरूत्तररूपम्|
नादः संधानम्| संहिता संधिः| सैषा गणेशविद्या| गणक ऋषीः| निचृद्गायत्री छंदः| गणपतिर्देवताः
| ॐ गंण गणपतये नमः ॥ एकदंताय विद्यहे वक्रतुंडाय धीमहि| तन्ना दंती प्रचोदयात्॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्| रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्|
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्| रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम्|
भक्तानुकंपिनं देवं जगत्कारणमच्युतम्| आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरूषात्परम्|
एवं ध्यायति यो नित्यंत स योगी योगिनां वरः॥ नमो व्रातपतये| नमो गणपतये|
नमः प्रमथपतये| नमस्तेऽस्तु लंबोदरायैकदंताय|
विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः॥ एतदथर्वशीर्षं योऽधीते|
स ब्रह्मभूयाय कल्पते| स सर्वतः सुखमेधते| स सर्व विघ्नैर्न बाध्यते|
स पश्चमहापापात्प्रमुख्यते| सायमधीनयाने दिवसकृतं पापं नाशयति|
प्रातरधीयानो रात्रिकृतं पापं नाशयति| सायंप्रातः प्रयुंजानो अपापो भवित|
सर्वत्राधीयानोऽपविघ्नो भवति| धर्मार्थकाममोक्षं च विंदति| इदमथर्वशीर्षमशिष्याय न देयम्|
यो यदि मोहाद्दास्यति स पापीयान् भवति| सहस्त्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत्॥
अनेन गणपतिमभिषिंचति स वाग्मी भवति| चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति|
इत्यथर्वणवाक्यं| ब्रह्माद्यावरणं विद्यात् न बिभेति बदाचनेति॥
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति| यो लाजैर्यजति स यशोवान् भवति स मेधावान् भवति|
यो मोदकसहस्रेण यजति स वांछितफलमवाप्नोति॥
यः साज्यसमिद्र्भिर्यजति स सर्वं लभते स सर्व लभते॥
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति|
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति| महाविघ्नात्प्रमुच्यते|
महादोषात्प्रमुच्यते| महापापात् प्रमुच्यते| स सर्वविद्भवति| स सर्वविद्भवति| य एवं वेद इत्युपनिषत्॥
ॐ सहनाववतु| सहनौभुनक्तु| सह वीर्य करवावहै| तेजस्विनावधीतमस्तु या विद्विषामहै॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः॥
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः॥
ॐ स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः|
स्वस्ति नस्ताक्षर्यो अरिष्टनेमिः स्वस्ति नो बृहस्तिर्दधातु॥
ॐ शांतिः शांतिः शांतिः॥
इति श्रीगणपत्यथर्वशीर्षं समाप्तम्॥

No comments:
Post a Comment